|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.184. अध्यायः 184
Mahabharata - Vana Parva - Chapter Topics
वर्षाशरद्वर्णनम् ॥ 1 ॥ युधिष्ठिरादिभिर्द्वैतवनात्पुनः काम्यकवनप्रवेशः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-184-0x(2363)(23003)
निदाघान्तकरः कालः सर्वभूतसुखावहः।
तत्रैव वसतां तेषां प्रावृट् समभिपद्यत ॥ 3-184-1(23004)
छादयन्तो महाघोषाः स्वं दिशश्च बलाहकाः।
प्रववर्षुर्दिवारात्रमसिताः सततं तदा ॥ 3-184-2(23005)
तपात्ययनिकेताश्च शतशोऽथ सहस्रशः।
अपेतार्कप्रभाजालाः सविद्युन्मण्डप्रभाः ॥ 3-184-3(23006)
विरूढशष्पा धरणी मत्तदंशसरीसृपा।
बभूव पयसा सिक्ता शान्तधूमरजोगणा ॥ 3-184-4(23007)
न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते।
समं वा विषमं वाऽपि नद्यो वा स्तावराणि वा ॥ 3-184-5(23008)
क्षुब्धतोया महावेगाः श्वसमाना इवाशुगाः।
सिन्धवः शोभयांचक्रुः काननानि तपात्यये ॥ 3-184-6(23009)
नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः।
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ॥ 3-184-7(23010)
स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह।
मत्ताः परिपतन्ति स्म दर्दुरश्चैव दर्पिताः ॥ 3-184-8(23011)
तदा बहुविधाकारा प्रावृण्मेघानुनादिता।
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ॥ 3-184-9(23012)
क्रौञ्चहंससमाकीर्णा शरत्प्रमुदीताऽभवत्।
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ॥ 3-184-10(23013)
विमलाकाशनक्षत्रा शरत्तेषां शिवाऽभषत्।
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ॥ 3-184-11(23014)
दृश्यन्ते शान्तरजसः क्षपाजलदशीतलाः।
ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ॥ 3-184-12(23015)
कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः।
नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः ॥ 3-184-13(23016)
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम्।
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ॥ 3-184-15(23017)
तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी।
तत्रैव वसतामासीत्कार्तिकी जनमेजय ॥ 3-184-16(23018)
पुण्यकृद्भिर्महासत्वैस्तापसैः सह पाण्डवाः।
तत्सर्वं भरतश्रेष्ठ समूहुर्योगमुत्तमम् ॥ 3-184-17(23019)
तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः।
सूतैः पौरोगवैः साकं काम्यकं प्रययुर्वनम् ॥ 3-184-18(23020)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-184-2 असिताः कृष्णवर्णाः ॥ 3-184-3 तपात्यये वर्षासु निकेता इव मण्डपीभूता इत्यर्थः ॥ 3-184-5 समवस्तृते आच्छादिते। स्थावराणि भूतलादीनि ॥ 3-184-6 आशुगाः तीव्रवेगाः। सिंधवः नद्यः ॥ 3-184-8 स्तोककाश्चाकाः। दुर्दराः मण्डूकाः ॥ 3-184-9 मरुधन्वसु गिरेः शुष्कस्थानेषु ॥ 3-184-10 रूढकक्षाणि बहुतृणानि वनानि प्रस्थशब्देदितानि सानूनि च यस्यां सा तथा ॥ 3-184-16 कार्तिकी कृत्तिकायुक्ता पौर्णमासी ॥ 3-184-17 योगं युज्यते रथादाविति व्युत्पत्त्या वाहनादिक समूहुः आरोपितभारं कृतवन्तः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|